|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.63. अध्यायः 063
Mahabharata - Bhishma Parva - Chapter Topics
सात्यकिभूरिश्रवसोः समागमः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-63-0x(4132)(41454)
हते तस्मिन्गजानीके पुत्रो दुर्योधनस्तव।
भीमसेनं ध्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥ 6-63-1(41455)
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्।
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥ 6-63-2(41456)
तं बलौघमपर्यन्तं देवैरपि सुदुःसहम् ।
आपतन्तं सुदुष्पारं समुद्रिमिव पर्वणि ॥ 6-63-3(41457)
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।
अनन्तरथपादातं रजसा सर्वतो वृतम् ॥ 6-63-4(41458)
तं भीमसेनः समरे महोदधिमिवापरम् ।
सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥ 6-63-5(41459)
तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः ।
भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥ 6-63-6(41460)
उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् ।
असंभ्रमं भीमसेनो गदया समवारयत् ॥ 6-63-7(41461)
स संवार्य बलौघांस्तन्गदया रथिनां वरः।
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥ 6-63-8(41462)
तस्मिन्सुतुमुले घोरे काले परमदारुणे।
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः॥ 6-63-9(41463)
द्रौपदेयाभिमन्युश्च शिखण्डी चापराजितः ।
न प्राजहन्भीमसेनं भये जाते महाबलम् ॥ 6-63-10(41464)
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्।
अधावत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥ 6-63-11(41465)
पोययन्रथबृन्दानि वाजिबृन्दनि चाभिभूः ।
कर्षयन्रथवृन्दानि बाहुवेगेन पाण्डवः ॥ 6-63-12(41466)
विनिध्रन्यचतत्सङ्ख्ये युगान्ते कालविद्विभुः ।
ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः ॥ 6-63-13(41467)
बलानि संममर्दाशु नड्वलानीव कुञ्जरः ।
मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ॥ 6-63-14(41468)
सादिनश्चाश्वपृष्ठेभ्यो भूमौ वापि पदातिनः ।
गदया व्यवमत्सर्वान्वातो वृक्षानिवौजसा ॥ 6-63-15(41469)
भीमसेनो महाबाहुस्तव पुत्रस्य वै बले।
सापि प्रञ्जानसामासैः प्रदिग्धा रुधिरेण च ॥ 6-63-16(41470)
अदृश्यत महारौद्रा गदा नागाश्वपातनी।
तत्रतत्र हतैश्चापि मनुष्यगजवाजिभिः ॥ 6-63-17(41471)
रणाङ्गणं समभवन्मृत्योरावाससन्निभम् ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ 6-63-18(41472)
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥ 6-63-19(41473)
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः ।
बभौ रूपं महाघोरं कालस्येव युगक्षये ॥ 6-63-20(41474)
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः ।
दृष्ट्वा मृत्युमवायान्तं सर्वे विमनसोऽभवन् ॥ 6-63-21(41475)
यतोयतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः।
तेनतेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥ 6-63-22(41476)
प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् ।
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥ 6-63-23(41477)
तं तथा भीमकर्माणं प्रगृहीतमहागदम् ।
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥ 6-63-24(41478)
महता रथघोषेण रथेनादित्यवर्चसा ।
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥ 6-63-25(41479)
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् ।
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ॥ 6-63-26(41480)
तस्मिन्क्षणे सात्यकिः सत्यसन्धः
शिनिप्रवीरोऽभ्यपतत्पितामहम्।
निघ्नन्नमित्रान्धनुषा दृढेन
संकम्पयंस्तव पुत्रस्य सैन्यम् ॥ 6-63-27(41481)
तं यान्तमश्वै रजतप्रकाशैः
शरान्वपन्तं निशितान्सुपुङ्खान्।
नाशक्नवन्धारयितुं तदानीं
सर्वे गणा भारत ये त्वदीयाः ॥ 6-63-28(41482)
अविध्यदेनं दशभिः पृषत्कैः-
रलम्बुसो राक्षसोऽसौ तदानीम् ।
शरैश्चतुर्भिः प्रतिविद्ध्य तं च
नप्ता शिनेरभ्यपतद्रथेन ॥ 6-63-29(41483)
अन्वागतं वृष्णिवरं निशम्य
तं शत्रुमध्ये परिवर्तमानम्।
प्रद्रावयन्तं कुरुपुङ्गवांश्च
पुनः पुनश्च प्रणदन्तमाजौ ॥ 6-63-30(41484)
योधास्त्वदीयाः शरवर्षैरवर्ष-
न्मेघा यथा भूधरमम्बुवेगैः ।
तथापि तं धारयितुं न शेकु-
र्मध्यंदिने सूर्यमिवातपन्तम् ॥ 6-63-31(41485)
न तत्र कश्चिन्नविषण्ण आसी-
दृते राजन्सोमदत्तस्य पुत्रात्।
स वै समादाय धनुर्महात्मा
भिरिश्रवा भारत सौमदत्तिः ॥ 6-63-32(41486)
दृष्ट्वा रथान्स्वान्व्यपनीयमाना-
न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥ ॥ 6-63-33(41487)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे त्रिषष्टितमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|